SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६१ विवेकचूडामणिः यत्र भ्रान्त्या कल्पितं यत् विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तेनशे भ्रान्तिदृष्टाहितत्त्वं रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ ३८९ ॥ स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्व स्वस्मादन्यन्न किञ्चन ॥ ३९० ॥ अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यवाच्यां स्वयमप्युदीच्यां तथोपरिष्टात् स्वयमप्यधस्तात् ॥ ३९९ ॥ तरङ्गफेनभ्रमबुद्धदादि सर्वे स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वे चिदेवेकरसं विशुद्धम् ॥३९२ सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं. वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९३ ॥ क्रिया समभिहारेण 66 यत्र नान्यत् " इति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याऽध्यासनिवृत्तये ॥ ३९४ ॥ आकाशवन्निर्मलनिर्विकल्पनिःसीमनिष्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोद्धयम् ॥ ३९५ ॥ वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं ब्रह्मैतजगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः । छा. ७-२४-१,
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy