________________
विवेकचूडामणिः. अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं पन्मुक्तिकारणम् ॥ ३८१ ॥ एष स्वयंज्योतिरशेषसाक्षी
विज्ञानकोशे विलसत्यजस्रम् । लक्ष्यं विधायैनमसद्विलक्षणं ।
अखण्डवृत्त्याऽऽत्मतयाऽनुभावय ॥ ३८२ ॥ एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम् ॥ ३८३ ॥ अत्रात्मत्वं दृढीकुर्वन् अहमादिषु संत्यजन् । उदासीनतया तेषु तिष्ठेत् घटपटाविव ॥ ३८४ ॥ विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे । शनैः शनैर्निश्चलतामुपानयन्
पूर्णत्वमेवानुविलोकयेत्ततः ॥ ३८५ ॥ देहेन्द्रियप्राणमनोऽहमादिभिः
स्वाज्ञानक्लप्तरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपं
पूर्ण महाकाशमिवावलोकयेत् ॥ ३८६ ॥ घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्ध
परमहमादिविमुक्तमेकमेव ॥ ३८७ ॥ ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ततः पूर्ण स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८८ ॥