________________
विवेकचूडामणिः. अन्तरत्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७४ ॥ बहिस्तु विषयैः सङ्गः तथाऽन्तरहमादिभिः । विरक्त एव शक्नोति त्यक्तं ब्रह्मणि निष्ठितः ॥ ३७५ ॥ वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षी विजानीहि विचक्षण ! स्वम् । विमुक्तिसौधाग्नतलाधिरोहणं
ताभ्यां विना नान्यतरेण सिद्धयति ॥ ३७६ ॥ अत्यन्तवैराग्यवतः समाधिः ___ समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७७ ॥ वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तञ्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्वारमजनमुक्तियुवतेर्यस्मात्त्वमस्मात्परं ।
सर्वत्रास्पृहया सदाऽऽत्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७८ आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृतिः
त्यक्त्वा जातिकुलाश्रमेष्वभिमति मुञ्चातिदूरात् क्रियाः। देहादावसति' त्यजात्मधिषणां प्रज्ञां कुरुप्वात्मनि
त्वं द्रष्टाऽस्यमलोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः॥३७९ लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेश्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं ब्रह्मानन्दसं पिबात्मनि मुदा शून्यैः किमन्यभ्रमैः ॥ ३८०
वसती.