SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. श्रुतेः शलगुणं विद्यात् भगक समानापि । निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ ३६६ ॥ निर्विकल्पसमाधिना स्कुट ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ ३६७ ॥ अतः समाधत्त्स्व यतेन्द्रियः सदा निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥ ३६८ ॥ योगस्य प्रथमं द्वारं वाङ्किरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ॥ ३६९ ॥ एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहवासना । तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः __तस्माञ्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुने!॥३७०॥ वाचं नियच्छात्मनि तं नियच्छ ___बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्ति परमां भजस्व ॥ ३७१ ॥ देहप्राणेन्द्रियमनोबुद्धयादिभिरुणाधिभिः । यैर्यवृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥ ३७२ ॥ तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । संदृश्यते सदानन्दरसानुभवविप्लवः ॥ ३७३ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy