________________
विवेकचूडामणिः. उपाधिभेदात् स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वान् ।
वसेत्सदाऽकल्पसमाधिनिष्ठया ॥ ३५९ ॥ सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन भ्रमरत्वाय कल्पते ॥ ३६० ॥ क्रियान्तरासक्तिमपास्य कीटको
ध्यायन् यथालिं ह्यलिभावमृच्छति । तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥ ३६१ ॥ अतीव सूक्ष्मं मरमात्मतत्त्वं ___न स्थूलदृष्टया प्रतिपत्तुमर्हति । समाधिनाऽत्यन्तसुसूक्ष्मवृत्त्या
शातव्यमारतिशुद्धबुद्धिभिः ॥ ३६२ ॥ यथा सुवर्ण पुटपाकशोधित
त्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन संत्यज्य समेति तत्त्वम् ॥ ३६३ ॥ निरन्तराभ्यासवशात्तादित्थं
पक्क मनो ब्रह्मणि लीयते यदा । तदा समाधिः सविकल्पवर्जितः
स्वतोऽद्वयानन्दरसानुभावकः ॥ ३६४ ॥ समाधिनाऽनेन समस्तवासना
ग्रन्थेविनाशोऽखिलकर्मनाशः ।। अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ ३६५ ॥