SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५७ विवेकचूडामणिः. . ५७ ततो विकाराः प्रकृतेरहंमुखाः देहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभाविन एवं आत्मा नोदेति नाप्येति कदापि नान्यथा ॥ ३५२ ॥ नित्याद्वयाखण्डचिदेकरूपो बुद्धयादिसाक्षी सदसद्विलक्षणः। अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दधनः परात्मा ॥ ३५३ ॥ इत्थं विपश्चित् सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्टया । शात्या स्वमात्मानमखण्डबोध - तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५४ ॥ अज्ञानहृदयग्रन्थेः निःशेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ ३५५ ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ ३५६ ॥ शान्तो दान्तः परमपरतः क्षान्तियुक्तः समाधि ___ कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५७ समाहिता ये प्रविलाप्य बाहां श्रोत्रादिचेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ ३५८ ॥ iv-8
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy