________________
५६
विवेकचूडामणिः.
अहंबुद्धचैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति गुणैः ॥ ३४५ ॥
विक्षेपशक्तिविजयो विषमो विधातुं निश्शेषमावरणशक्तिनिवृत्त्यभावे ।
दग्दश्ययोः स्फुटपयोजलवद्विभागे
नश्येत् तदावरणमात्मनि च स्वभावात् ॥ ३४६ ॥
निःसंशयेन भवति प्रतिबन्धशून्यो
विक्षेपणं न हि तदा यदि चेन्मृषार्थे ।
सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य हग्दश्य पदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४७ ॥
परावरैकत्वविवेकवही
दहत्यविद्यागहनं सशेषम् ।
किं स्यात् पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥
आवरणस्य निवृत्तिः भवति च सम्यक् पदार्थदर्शनतः । मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥ ३४९ ॥
एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३५० ॥
अयोऽग्नियोगादिव सत्समन्वयात् मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेतत्त्रितयं यतो मृषा
दृष्टं भ्रमस्वप्नमनोरथेषु ॥ ३५९ ॥