SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. जानन् हि कुर्यादसतोऽवलम्ब स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३८ ॥ देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोभिन्नगुणाश्रयत्वात् ॥ ३३९ ॥ अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्त्राऽऽत्मनाऽऽधारतया विलोक्य | त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः ॥ ३४० ॥ सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । ५५ दृश्याग्रहे सत्युपपद्यतेऽसी सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४९ ॥ दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञेः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४२ ॥ सर्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः । समाधिं विदधात्येषा " शान्तो दान्त” इति श्रुतिः ||३४३ ॥ आरूढशक्तेरहमो विनाशः कर्तुं न शक्यः सहसाऽपि पण्डितैः । ये निर्विकल्पाख्यं समाधिनिश्चलाः तानन्तराऽनन्तभवा हि वासना ॥ ३४४ ॥ * बृह. ६-४-२३.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy