SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः यदा कदा वाऽपि विपश्चिदेषः ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदेव . यदीक्षितं भिन्नतया प्रमादात् ॥ ३३२ ॥ . श्रुतिस्मृतिन्यायशनिषिद्ध दृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३३ ॥ सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्येत् दृष्टं तदेतद्यदचोरचोरयोः ॥ ३३४ ॥ यतिरसदनुसन्धि बन्धहेतुं विहाय ___ स्वयमयमहमस्मात्यात्मदृष्टयैव तिष्ठेत् । सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या । हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ ३३५ ॥ बाह्यानुसन्धिः परिवर्धयेत् फलं दुर्वासनामेव ततस्ततोधिकाम् ।। ज्ञात्वा विवेकैः परिहृत्य बाह्य स्वात्मानुसन्धि विधीत नित्यम् ॥ ३३६ ॥ बाह्ये निरुद्ध मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन् सुदृष्टे भवबन्धनाशो बहिनिरोधः पदवी विमुक्तेः ॥ ३३७ ॥ कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी ।
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy