________________
विवेकचूडामणिः.
॥ प्रमा द त्या गः ॥
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान् ब्रह्मणः सुतः ॥ ३२३ ॥ न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोहंधीः ततो बन्धस्ततो व्यथा ॥ ३२४ ॥ विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥ ३२५ ॥ यथा प्रकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वाऽपि पराङ्मुखम् ॥ ३२६ ॥ लक्ष्यच्युतं चेद्यदि चित्तमीषत् - बहिर्मुखं सन्निपतेत् ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ॥ ३२७ ॥ विषयेष्वाविशञ्चेतः सङ्कल्पयति तद्गुणान् । सम्यक् सङ्कल्पनात् कामः कामात् पुंसः प्रवर्तनम् ॥३२८॥ ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईश्यते । संकल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥ ३२९ ॥ अतः प्रमादान्न परोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ॥ ३३० ॥ जीवतो यस्य कैवल्यं विदेहे च स केवलः । यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ ३३१ ॥