SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. कार्यप्रवर्द्धनाद्वीजप्रवृद्धिः परिदृश्यते । कार्यनाशाहीजनाशः तस्मात् कार्य निरोधयेत् ॥३१४॥ वासनावृद्धितः कार्य कार्यवृद्धया च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ ३१५ ॥ संसारबन्धविच्छित्त्यै तद्वयं प्रदहेद्यतिः। . वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥ ३१६ ॥ ताभ्यां प्रवृद्धमाना सा सूते संसृतिमात्मनः । बयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१७ ॥ सर्वत्र सर्वतः सर्व ब्रह्ममात्रावलोकनम् । सद्भाववासनादाात् तत् त्रयं लयमश्नुते ॥ ३१८ ॥ क्रियानाशे भवेञ्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ ३१९ ॥ सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाऽत्वहमादिवासना। अतिप्रकृष्टाऽप्यरुणप्रभायां . विलीयते साधु यथा तमिस्रा ॥ ३२० ॥ तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानन्दरसानुभूतो नैवास्ति बन्धो न च दुःखगन्धः ॥ ३२१ ॥ दृश्यं प्रतीतं प्रविलापयन् सन् सन्मात्रमानन्दघनं विभावयन् । समाहितः सन् बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे ॥ ३२२ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy