________________
विवेकचूडामणिः
यदध्यासात् प्राप्ता जनिमृतिजरा दुःखबहुलाः प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ ३०७ ॥
सदैकरूपस्य चिदात्मनो विभोः आनन्दमूर्तेरनवद्य कीर्तेः ।
नैवान्यथा काप्यविकारिणस्ते
विनाऽहमध्यासममुष्य संसृतिः ॥ ३०८ ॥
तस्मादहङ्कारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत् प्रतीतम् ।
विछिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०९ ॥
ततोऽहमादेविनिवर्त्य वृत्ति
संत्यक्तरागः परमार्थलाभात् ।
तूष्णीं समास्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३१० ॥
समूलकृत्तोऽपि महानहं पुनः
व्यल्लेखितः स्याद्यदि चेतसा क्षणम् । संजीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥ ३९९ ॥
निगृह्य शत्रोरहमोऽवकाशः
कचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य
प्रक्षीणजम्बीरतरोरिवाम्बु ॥ ३९९ ॥
देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव
भेदप्रसक्त्या भवबन्धहेतुः ॥ ३९३ ॥
५१