________________
५०
विवेकचूडामणिः .
त्यजाभिमानं कुलगोत्रनाम - रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृताऽऽदीन्
त्यक्त्वा भवाखण्डसुख स्वरूपः ॥ २९९ ॥
सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेषां मूलं प्रथमो विकारो भवत्यहङ्कारः ॥ ३०० ॥
यावत् स्यात् स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्राऽपि मुक्तिवार्ता विलक्षणा ॥ ३०९ ॥
अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ३०१ यो वा पुरैषोऽहमिति प्रतीतो
बुद्धया विक्लप्तस्तमसाऽतिमूढया । तस्यैव निश्शेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३०३ ॥
ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः । विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ||३०४
यावद्वा यत् किञ्चित् विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत् तद्वदहन्ताऽपि योगिनो मुक्त्यै ॥ ३०५
अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या | प्रत्यक्तत्त्वविवेकात् अयमहमस्मीति विन्दते तत्त्वम् ॥ ३०६ ॥
अहङ्कर्तर्यस्मिन्नहमिति मतिं मुञ्च सहसा - विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।