________________
विवेकचूडामणिः.
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९९ ॥ चिदात्मनि सदानन्दे देहारूढा महंधियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९२ ॥
यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९३ ॥ यत् सत्यभूतं निजरूपमाद्यं विदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजैतत् शैलूषवद्वेषमुपान्तमात्मनः ॥२९४
सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यहं सर्वमिति प्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९५ ॥
अहंपदार्थस्त्वहमादि साक्षी
नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते " जो नित्य "" इति श्रुतिः स्वयं तत् प्रत्यगात्मा सदसद्विलक्षणः ॥ २९६ ॥
विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति । मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनर्दष्टमसत्त्वमेतयोः ॥ २९७ ॥
अतोऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ २९८ ॥
क. उ. २-१८,
४९
iv-7