________________
विवेकचूडामणिः. तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति । तस्मात् सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ २८० ॥ प्रारब्धं पुष्यति वपुः इति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २८१ ॥ नाहं जीवः परं ब्रह्मेत्येतद्वयावृत्तिपूर्वकम् । . वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८२ ॥ श्रुत्या युक्तया स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८३ ॥ अन्नादान विसर्गाभ्यां ईषनास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८४ ॥ तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदाया॑य स्वाध्यासापनयं कुरु ॥ २८५ ॥ अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ २८६ ॥ प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावनिरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥ २८७ ॥ निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥ २८८ ॥ मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चाण्डालवदूरं ब्रह्मीभूय कृती भव ॥ २८९ ॥ घटाकाशं महाकाशे इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने! ॥ २९० ॥
1अन्यादान,