________________
विवकचूडामणिः .
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्या स्वान्यत्रात्ममतिं जहि ॥ २७९ ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७२ ॥
लोकवासनया जन्तोः शास्त्रवासनयाऽपि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७३ ॥
संसारकारागृह मोक्षमिच्छोः
अयोमयं पादनिबद्धशृङ्गलम् ।
वदन्ति तज्ज्ञाः पटुवासनात्रयं
योsस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७४ ॥
जलादिसम्पर्कवशात् प्रभूतदुर्गन्धधूताऽगुरुदिव्यवासना । संघर्षणेनैव विभाति सम्यक् विधूयमाने सति बाह्यगन्धे ॥ २७५
अन्तःश्रितानन्तदुरन्तवासना
धूलीविलिप्ता परमात्मवासना |
प्रज्ञातिसंघर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत् स्फुटा ॥ २७६ ॥
अनात्मवासनाजालैः तिरोभृताऽऽत्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटा ॥ २७७ ॥
यथायथा प्रत्यगवस्थितं मनः
तथातथा मुञ्चति बाह्यवासनाः ।
निश्शेषमोक्षे सति वासनानां
४७
आत्मानुभूतिः प्रतिबन्धशून्या ॥ २७८ ॥
स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७९ ॥