SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१ एकमेव सदनेककारणं कारणान्तरनिरासकारणम् । कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥ निर्विकल्पकमनल्पमक्षरं यत् क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३ यद्विभाति सदनेकधा भ्रमात् नामरूपगुणविक्रियात्मना ।। हेमवत् स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४ यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६॥ उक्तमर्थमिव चात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया । संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६६॥ स्वबोधमात्रं परिशुद्धतत्त्वं विज्ञाय संघे नृपवन सैन्ये । तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥ २६७ ॥ बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६॥ ॥ वा स ना क्ष यो पा यः ॥ ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा - कर्ता भोक्ताऽप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्टयाऽऽत्मनि निवसता साऽपनेया प्रयत्नात् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६९॥ अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २७० ॥ मद्वयं. ब्रह्म
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy