________________
विवेकचूडामणिः.
४५
संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ॥ २५२ अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीत
जहीहि यत् स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुद्धया
विद्धि स्वमात्मानमखण्डबोधम् ॥ २५३ ॥ मृत्कार्य सकलं घटादि सततं मृन्मात्रमेवाभितः
तद्वत् संजनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत् सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥ निद्राकल्पितदेशकालविषयज्ञात्रादिसर्वे यथा
मिथ्या तद्वदिहापि जाग्रति जगत् स्वाज्ञान कार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत् परम् ॥२५५॥
जातिनीतिकुलगोत्र दूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६ यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्धनमनादिवस्तु यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ षड्भिरूर्मिभिरयोगि योगिहृद्भावितं न करणैर्विभावितम् । बुद्धयवेद्यमनवद्यभूति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥ भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानमृद्धिमा तत्त्वमसि भावयात्मनि ॥२५९ जन्मवृद्धि परिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् । विश्वसृष्टयवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०