SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४५ ॥ तयोविरोधोऽयमुपाधिकल्पितो । न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्य शृणु पञ्च कोशाः ॥ २४६ ॥ एतावुपाधी परजीवयोस्तयोः सम्यङिरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटकः ___तयोरपोहे न भटो न राजा ॥ २४७ ॥ " अथात आदेश"* इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतयुक्त्या तयोनिरासः करणीय एवम् ॥ २४८ ॥ नेदं नेदं कल्पितत्वान्न सत्यं रजौ दृष्टव्यालवत् स्वप्नवञ्च । इत्थं दृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ २४९ ॥ ततस्तु तो लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किन्तूभयात्मिकयैव भाव्यम् ॥ २५० ॥ स देवदत्तोऽयमितीह चैकता विरुद्धधर्माशमपास्य कथ्यते । यथा तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५१ *बृ. उ. ४-३.६. बोधात.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy