SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणि.. आरोपितस्यास्ति किमर्थवत्ताs धिष्टानमाभाति तथा भ्रमेण ॥ २३८ ॥ भ्रान्तस्य यद्यत् भ्रमतः प्रतीतं ब्रह्मेव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३९ ॥ ॥ ब्रह्म स्वरूपम् ॥ अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ॥२४०॥ निरस्तमायाकृतसर्वभेद नित्यं ध्रुवं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २४९ ॥ ज्ञातृज्ञेयज्ञानशून्यं अनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २४२ ॥ अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्ण महन्महः ॥ २४३ ॥ ॥ तत्त्वमसि म हा वा क्या र्थः ॥ तत्त्वम्पदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रतिपद्यते मुहुः ॥ २४४ ॥ ४३ ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्ध धर्मिणोः ।
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy