SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. न निरोधो न चोत्पत्तिः न बन्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ ५७६ ॥ सकलंनिगमचूडास्वान्तसिद्धान्तगुर्थी परमिद्मतिगुहं दर्शितं ते मयाऽद्य । अपगतकलिदोषः कामनिर्मुक्तबुद्धिः . . तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥ ५७७ ।। इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ ५७८ ॥ गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन् वसुधां सर्वी विचचार निरन्तरः ॥ ५७९ ॥ इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षुणां सुखबोधोपपत्तये ॥ ५८० ॥ हितमिदमुपदेशमाद्रियन्तां विहितानरस्तसमस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचित्ताः · श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८१ ॥ संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथाखिन्नानां जलकाक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् । अत्यासन्नसुधाम्बुधिं सुखकरें ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥५८२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्य पादशिष्यश्रीमच्छङ्करभगवत्कृती विवेकचूडामणिः समाप्तः. . निरूत्तरः
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy