________________
विवेकचूडामणिः. तटस्थितस्तत्त्रि'तयावभासका
स्वयंप्रकाशो विदुषा यथा तथा ॥ २२२ ॥ देहं धियं चित्प्रतिबिम्बमेतं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥२२३॥
नित्यं विभुं सर्वगतं सुसूक्ष्म ___अन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यक् निजरूपमेतत्
पुमान् विपाप्मा विरजो विमृत्युः ॥ २२४ ॥ विशोक आनन्दधंनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित्। . नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः॥ . ॥ ब्रह्म णोऽद्वि ती य त्व म् ॥ ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥ २२६ ॥ ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यक् ब्रह्माभिन्नत्वमात्मनः ॥ २२७ ॥ सत्यं ज्ञानमनन्तं ब्रह्म विशुद्ध परं स्वतः सिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ २२८ ॥ सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थवस्तुबोधदशायाम् ॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत् सर्व ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २३० ॥ मृत्कार्यभूतोऽपि मृदोन भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । 'कूटस्थ एतत्रि.
iv-6