________________
विवेकचूडामणिः. शिष्य उवाच
मिथ्यात्वेन निषिद्धषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किंचित् न पश्याम्यत्र हे गुरो ॥२१४ ॥
विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥ २१५ ॥ श्रीगुरुरुवाच
सत्यमुक्तं त्वया विद्वन् ! निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यथ ॥ २१६ ॥ सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्धया सुसूक्ष्मया ॥ २१७ ॥ तत्साक्षिकं भवेत्तत्तत् यद्ययेनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ २१८ ॥ असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥ २१९ ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाऽहमहमित्यन्तः स्पुरन्नेकधा । नानाकारविकारभाजिन इमान् पश्यन्नहंधीमुखान् नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२२० घटोदके बिम्बितमर्कबिम्ब
आलोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं
भ्रान्त्याऽहमित्येव जडोऽभिमन्यते ॥ २२१ ॥ घटं जलं तद्गतमर्कबिम्बं ___ विहाय सर्व दिवि वीक्ष्यतेऽर्कः । नाऽत्र विपश्चिता.
विनिरी.
प्यनु.