________________
विवकचूडामणिः
अनिवृत्तौ तु सदात्मना स्फुटं प्रतीतिरतस्य भवेत् प्रतीचः ।
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः ॥ २०६ ॥
अतो नायं परात्मा स्यात् विज्ञानमयशब्दभाक् ॥ २०७ ॥ विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।
दृश्यत्वात् व्यभिचारित्वात् नानित्यो नित्य इष्यते ॥२०८ || ॥ आनन्द म य को श वि वे कः ॥
आनन्दप्रतिविम्व चुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०९ ॥
आनन्दमयकोशस्य सुतौ स्फूर्तिरुत्कटा | स्वप्नजागरयोषित् इष्टसन्दर्शनादिना ॥ २९० ॥
नैवायमानन्दमयः परात्मा
सोपाधिकत्वात् प्रकृतेर्विकारात् ।
कार्यत्वहेतोः सुकृतक्रियायाः
३९
विकारसङ्घातसमाहितत्वात् ॥ २१९ ॥
॥ साक्षिस्वरूप म् ॥
पञ्चानामपि कोशानां निषेधे युक्तितः कृते । तनिषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥ २१२ ॥
योsयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः ।
अवस्थात्रय साक्षी सन् निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २९३ ॥