________________
१.
विवेकचूडामणिः.
भ्रान्ति विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।
न घटेताथसम्बन्धो नभसो नीलतादिवत् ॥ १९७ ॥
स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्यो
+
मोहापाये नास्त्यस्तु स्वभावात्ं ॥ १९८ ॥
यावद्भान्तिस्तावदेवास्य लत्ता मिथ्याज्ञानोज्जम्भितस्य प्रमादात् ।
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेनाशे नैव सर्पोऽस्ति तद्वत् ॥ १९९ ॥ अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायां विद्यकमनाद्यपि | बोधे स्वप्नवत् सर्व सहमूलं विनश्यति ॥ २०० ॥ अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् । अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥ २०९ ॥
यहुद्धयुपाधिसम्बन्धात् परिकल्पितमात्मनि । जीवत्वं न ततोऽन्यत्त स्वरूपेण विलक्षणम् ॥ २०२ ॥ सम्बन्धः स्वात्मनो बुद्धया मिथ्याज्ञानपुरःसरः । विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ॥ २०३ ॥
ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् । तदात्मानात्मनोः सम्यग्विवेकेनैव सिद्ध्यति ॥ २०४ ॥
ततो विवेकः कर्त्तव्यः प्रत्यगात्मा सदात्मनोः । जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् ॥ २०५ ॥ [यथा भाति तथाSSत्माऽपि दोषाभावे स्फुटप्रभः ।]
*