________________
to
.
विवेकचूडामणिः. भुङ्क्ते विचित्रास्वपि योनिषु वजन्
__ आयाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत् ___ स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ १८९ ॥ देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात् परात्मनः । अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥ योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्स्वयंज्योतिः । कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१॥ स्वयं परिच्छेदमुपेत्य बुद्धः
तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं
- स्वतः पृथक्त्वेन मृदो घटानिव ॥ १९२ ॥ उपाधिसम्बन्धवशात् परात्मा
ह्यपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत्
सदैकरूपोऽपि परः स्वभावात् ॥ १९३ ॥ - ॥ अ ना द्य वि द्या ना शो प पत्तिः ॥ शिष्य उवाच
भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः । तदुपाथेरनादित्वात् नानादर्नाश इष्यते ॥ १९४ ॥ अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः ।
न निवर्तेत, तन्मोक्षः कथं ? मे श्रीगुरो वद ॥ १९५ ॥ श्रीगुरुरुवाच
सम्यक् पृष्टं त्वया विद्वन् ! सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६ ॥