________________
३६
विवेकचूडामणिः
रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ ९८९ ॥
अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥ १८२ ॥
तन्मनः शोधनं कार्य प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन् मुक्तिः करतला यते ॥ १८३ ॥ मोक्षेक्तया विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजः स्वभावं स धुनोति बुद्धेः ॥ १८४ ॥ मनोमयो नापि भवेत् परात्मा
ह्याद्यन्तवत्त्वात् परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ १८५ ॥
॥ विज्ञान मय को श वि वे कः ॥ बुद्धिर्बुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् पुंसः संसारकारणम् ॥ १८६ ॥
अनुव्रजच्चित्प्रतिविम्वशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावानहमित्यजत्रं
देहेन्द्रियादिष्वभिमन्यते भृशम् ॥ १८७ ॥
अनादिकालोऽयमहं स्वभावो
जीवः समस्तव्यवहारवोढा ।
करोतिं कर्माण्यनुपूर्ववासनः
पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥
करतला.