SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ , विवेकचूडामणिः. नैवात्माऽपि प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः । यस्मात् किञ्चित् काऽपि न वेत्तीष्टमनिष्टं स्वं वाऽन्यं वा किञ्चन नित्यं परतन्त्रः ॥ १६८ ॥ ॥म नो म य को श वि वे क : ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाह मिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयान् तत्पूर्वकोशमनुपूर्य विजृम्भते यः ॥ १६९ ॥ पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया ।। जाज्वल्यमानो बहुवासनेन्धनैः मनोमयोऽग्निर्दहति प्रपञ्चम् ॥ १७० ॥ न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं विनष्टं ___ विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥ १७१ ॥ स्वप्नेऽर्थशून्ये सृजति स्वशक्तया __भोक्तादि विश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेष तत् सर्वमेतन्मनसो विजृम्भणम् ॥ १७२ ॥ सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित् सकलप्रसिद्धः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ॥ १७३ ॥ ममाय. माभिपूर्य.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy