SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः विविच्य तत्र प्रविलाप्य सर्व तदात्मना तिष्ठति यः स मुक्तः ॥ १५५ ॥ ॥ अन्न म य को श विवेक : ॥ देहोऽयमनभवनोऽनमयस्तु कोशो . __ ह्यनेन जीवति विनश्यति तद्विहीनः । । त्वक्चर्ममांसरूधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥ पूर्व जनेरपि मृतेरथ नायमस्ति जातक्षणः क्षण'गुणोऽनियतस्वभावः । नैको जडश्च घटवत् परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्तः ॥ १५७ ॥ पाणिपादादिमान् देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५८ ॥ देहतद्धर्मतत्कर्मतवस्थादिसाक्षिणः । [स्वत एव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १५९ ॥] शल्यराशिर्मासलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशौ अहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् ॥ १६१ ॥ देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः । जातक्षणक्षण, जातःक्षणक्षण. श्वेत्ता.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy