SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः ॥ पर मा त्मा ॥ अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विशाय नरो बन्धात् मुक्तः कैवल्यमश्नुते ॥ १२६ ॥ अस्ति कश्चित् स्वयं नित्यं अहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन् पञ्चकोशविलक्षणः ॥ १२७ ॥ यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितवृत्तिसद्भावं अभावमहमित्ययम् ॥ १२८ ॥ यः पश्यति स्वयं सर्व यं न पश्यति कश्चन । यश्चेतयति बुद्धयादि न तद्यं चेतयत्ययम् ॥ १२९ ॥ येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । अभारूपमिदं सर्व यं भान्तमनुभात्ययम् ॥ १३० ॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥ अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवत् येन नित्यबोधस्वरूपिणा ॥ १३२ ॥ एषोऽन्तरात्मा पुरुषः पुराणो. .. निरन्तराखण्डसुखानुभूतिः । । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ॥ १३३ ॥ अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उरुप्रकाशः । आकाश उच्चै रविवत् प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३४ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy