SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः शाता मनोऽहङ्कतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् । भयोऽग्निवत्ताननु वर्तमानो न चेष्टते नो विकरोति किञ्चन ॥ १३५ ॥ न जायते नो म्रियते न वर्धते न क्षीयते नो विकरात नित्यः । विलीयमानेऽपि वपुष्यमुष्मिन् न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३६ ॥ प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निविशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था. स्वहमहमिति साक्षात् साक्षिरूपेण बुद्धः ॥ १३७ ॥ नियमितमनसाऽमुं त्वं स्वमात्मानमात्म न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धु प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३८ ॥ ॥ वन्ध : ॥ अत्रानात्मन्यहमिति मतिबन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाजननमरणक्लेशसंपातहेतुः । येनैवायं वपुरिदमसत् सत्यमित्यात्मबुद्धया ___ पुष्यत्युप्यत्यवति विश्यैस्तन्तुभिः कोशकद्वत् ॥ १३९॥ अतस्मिंस्तद् द्धिः प्रभवति वियूढस्य तमसा विवेकाभावा? स्फुरति सुजगे रज्जुधिषणा । ततोऽनर्थबातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बन्धः श्रृणु सखे ! ॥१४०
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy