SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥ ११३ ॥ कामः क्रोधो लोभम्भाश्यलूया____ हङ्कारामासाद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्तिः यस्मादेषा तद्रजो वन्धहेतुः ॥ ११४ ॥ सैषाऽऽवृत्तिर्नाम तमोगुणस्य शक्तिर्यया वस्त्ववभासतेऽन्यथा । सैषा निदानं पुरुषस्य संसृतेः । विक्षेपशक्तः प्रसरस्य हेतुः ॥ ११५ ॥ प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थहक् व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गणान् हन्ताऽसौ प्रबला दुरन्ततमसः शक्तिमहत्यावृतिः ॥११६॥ अभावना वा विपरीतभावना सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजत्रम् ॥ ११७ ॥ अज्ञानमालस्यजडत्वनिद्रा प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चित् निद्रालुवत् स्तम्भवदेव तिष्ठति ॥ ११८ ॥ सत्त्वं विशुद्ध जलवत् तथाऽपि ताभ्यां मिलित्वा सरणाय कल्पते । । शक्तिप्रवणस्य.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy