SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः. अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽभिमान्ययम् । सत्त्वादिगुणयोगेनावस्थात्रितयमश्नते ॥ १०६ ॥ विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०७ ॥ आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥ १०८ ॥ तत आत्मा सदानन्दो नास्य दुःखं कदाचन । यत् सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ १०९ ॥ ॥ कारण शरीरम् ॥ अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया या जगत्सर्वमिदं प्रसूयते ॥ ११० ॥ सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाऽप्यभिन्नाऽप्युभयात्मिका नो । साङ्गाऽप्यनङ्गाऽप्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ॥ १११ ॥ शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रजविवेकतो यथा । रजस्तमः सत्त्वमिति प्रसिद्धाः गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२ ॥ विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । १५ iv4
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy