SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९९ ॥ स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः ॥ १० ॥ कादिभावं प्रतिपद्य राजते यत्र स्वयंज्योतिरयं परात्मा । धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेपैः । यस्मादसङ्गस्तत एव कर्मभिः ___ न लिप्यते किंचिदुपाधिना कृतैः ॥ १०१ ॥ सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । . वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥ १०२॥ अन्धत्वमन्दत्वपटुत्वधर्माः . सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ १०३ ॥ उच्छासनिश्वासविजृम्भणक्षुत प्रस्पन्दनायुत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ज्ञाः प्राणस्य धर्मावशनापिपासे ॥ १०४ ॥ ------ अन्तःकरणमेतेषु चक्षुरादिषु वर्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेऽञ्जसा ॥ १०५ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy