________________
विवेकचूडामणिः सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।। विद्धि देहमिदं स्थूलं गृहवत् गृहमेधिनः ॥ ९२ ॥ स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः
पूजावमानबहुमानमुखा विशेषाः ॥ ९३ ॥
॥ सूक्ष्म शरीर म् ॥ बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणेन कर्मसु ॥ निगद्यतेऽन्तःकरणं मनो धीः
अहंकृतिश्चित्तमिति स्ववृत्तिभिः । मनस्तु संकल्पविकल्पनादिभिः ___ बुद्धिः पदार्थाध्यवसायधर्मतः ॥ ९५ ॥ अत्राभिमानादहमित्यहंकृतिः ___ स्वार्थानुसन्धानगुणेन चित्तम् ॥ ९६ ॥ प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदात् विकृतिभेदात् सुवर्णसलिलादिवत् ॥ वागादि पञ्च श्रवणादि पञ्च
प्राणादि पञ्चाभ्रमुखानि पञ्च । बुद्धयद्यविद्यापि च कामकर्मणी
पुर्यष्टकं सुक्ष्मशरीरमाहुः ॥ ९८ ॥ इदं शरीरं श्रृणु सूक्ष्मसंज्ञितं.
लिङ्गं त्वपञ्चीकृतभूतसम्भवम् ।
1धा यमाः.