SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः ॥ स्थू ल श री र म् ॥ मजास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अझैरुपा रुपयुक्तमेतत् ॥ ७४ ॥ अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥ परस्परांशैमिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विपया भवन्ति शब्दादयः पञ्च सुखाय भोक्तः॥ य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आर्यान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः॥७७ शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्ग'मातङ्गपतङ्गमीनभृङ्गा नरः पञ्चभिरञ्चितः किम् ? ॥७८ दोषेण तीब्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥ ७९ ॥ [विषयाशामहापाशात् यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्टास्त्रवेद्यपि ॥ ८० ॥ आपातवैराग्यवतो मुमुक्षुन् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मजयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१ ॥ विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्बोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥] विषमविषयमार्गे गच्छतोऽनच्छबुद्धः प्रतिपदमाभिघातो मृत्युरप्येष सिद्धः । 'भुजङ्ग. - मृगा.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy