________________
विवेकचूडामणिः अकृत्वा दृश्यविलयं अज्ञात्वा तत्त्वमात्मनः । बाह्यशब्दैः कुतो मुक्तिः ? उक्तिमात्रफलैर्नृणाम् ॥ ६५ ॥ अकृत्वा शत्रुसंहारमगत्वाऽखिलभूश्रियम् । राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६६ ॥ आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृति निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति । तद्वद् ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६७ तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये ।। स्वैरेव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥ ६८ ॥ यस्त्वयाऽद्य कृतः प्रश्नो वरीयान्छास्त्रविन्मतः । सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥ शृणुष्वावहितो विद्वन् ! यन्मया समुदीर्यते । . तदेतच्छ्रवणात् सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ७० ॥ .
मोक्ष हे त व :॥ . मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमानित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ ७१ ॥ ततः श्रुतिस्तन्मननं सतत्त्वध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति॥७२
॥ आ त्मा ना त्म वि वे च न म् ॥ यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वाऽऽत्मन्यवधारय ॥ ७३ ॥