________________
विवेकचूडामणिः.
ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५३ ॥
मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ ६४ ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा ॥ आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्टितकर्मणा ॥ ५५ ॥
वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं ननु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ? ॥५६॥
अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ? ॥ ५७ ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८ ॥ वीणाया रूपसौन्दर्य तन्त्रीवाद सौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥ ५९ ॥
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥ ६० ॥ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ६१ ॥
शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात् तत्त्वमात्मनः ॥ ६२ ॥
१९
अज्ञान सर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।
. किमु वेदैश्च शास्त्रश्च ? किमु मन्त्रैः किमौषधैः १ ॥ ६३ ॥
न गच्छति विना पानं व्याधिरौषधशब्दतः ।
विनाऽपरोक्षानुभवं ब्रह्मशब्देन मुच्यते ॥ ६४ ॥