________________
विवेकचूडामाणः.
शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनाऽन्यानपि तारयन्तः ॥ ३९ ॥ अयं स्वभावः स्वत एव यत् पर
श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश
प्रभाऽभितप्तामवति क्षितिं किल ॥ ४० ॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो ! ... धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः॥४१॥ कथं तरेयं भवसिन्धुमेतं?
का वा गतिर्मे ? कतमोऽस्त्युपायः ? । जाने न किञ्चित् कृपयाऽव मां प्रभो!
संसारदुःखक्षतिमातनुष्व ॥ ४२ ॥ तथा वदन्तं शरणागतं स्वं
संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसादृष्टया
दद्यादभीतिं सहसा महात्मा ॥४३॥ विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥
दयार्द्रट ; सुधाभिवृ.
.
iv-3