________________
विवेकचूडामणिः. अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ २८ ॥ मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २९ ॥ [वैराग्यं च मुमुक्षुत्वं तीवं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ ३०॥ एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत् तत्र शमादेर्भानमात्रता ॥ ३१ ॥] मोक्षकारणसामग्रयां भक्तिरेव गरीयसी। स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२ ॥ [स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ।।
॥गुरू प स त्तिः॥ . उक्तसाधनसम्पन्नः तत्त्वजिज्ञासुरात्मनः ॥ ३३ ॥ उपसीदेत् गुरुं प्राशं यस्मात् बन्धविमोक्षणम् । श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ॥ ३४ ॥ ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुः बन्धुरानमतां सताम् ॥ ३५ ॥ तमाराध्य गुरुं भक्त्या प्रहप्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६ ॥ स्वामिन्नमस्ते नतलोकवन्धी
कारुण्यसिन्धो पतितं भवान्धौ । मामुद्धरात्मीयकटाक्षदृष्टया
ऋज्वाऽऽतिकारुण्यसुधाभिवृष्टया ॥ ३७॥ दुरसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यं यदहं न जाने ॥३८॥