________________
विवेकचूडामणिः.
[विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ १७ ॥]
॥ साधन च तु ष्टय म् ॥
साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् ॥ १९ ॥
शमादिषसम्पत्तिः मुमुक्षुत्वमिति स्फुटम् । ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ॥ २० ॥
सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः । तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः ॥ २१ ॥
देहादिब्रह्मपर्यन्ते नित्ये भोग्यवस्तुनि । विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ॥ २२ ॥ स्वलक्ष्ये नियतावस्था मनसः शम उच्यते । विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ॥ २३ ॥
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः । बाह्यानालम्बनं वृत्तेः एषोपरतिरुत्तमा ॥ २४ ॥ सहनं सर्वदुःखानां अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २५ ॥
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्धयाऽवधारणा । सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते ॥ २६ ॥ सर्वधा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा | तत् समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ २७ ॥
१५