________________
૧૪
विवेकचूडामणिः.
* [ अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥] ॥ मुक्त्यर्थो यत्न विशेषः ॥ अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तवाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ॥ ८ ॥ उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९ ॥ [ संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्वीरैः आत्माभ्यास उपस्थितैः ॥ १० ॥] ॥ विचारः कर्तव्यः ॥
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित् कर्मकोटिभिः ॥ ११ ॥ सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्त्योदितमहासर्प भयदुःखविनाशिनी ॥ १२ ॥ अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन् सहकारिणः ॥ १४ ॥ अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५ ॥ ॥ आत्मविद्याधिकारी ॥
!
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः । अधिकार्यात्मविद्यायां उक्तलक्षणलक्षितः ॥ १६ ॥
* [ ] एतच्चिह्नमध्यगतो भागः दाक्षिणात्यकोशेषु न दृश्यते । एवमुत्तरत्रापि.