SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७. सर्ववेदान्तसिद्धान्तसारसंग्रहः. ४८८ ४८२ अज्ञाननिवर्तकम्. अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा॥ नैतस्मात्कर्मणः कार्य अन्यदस्ति विलक्षणम् । अज्ञानकार्य तत्कर्म यतो ज्ञानेन वर्धते ॥ ४९० यद्येन वर्धते तेन नाशस्तस्य न सिद्धयति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ नाशत्वमेतदुभयोः को नकल्पयितुं क्षमः । सर्व कर्माविरोध्येव सदा ज्ञानस्य सर्वदा ॥ ततो ज्ञानस्य विच्छित्तिः कर्मणा नैव सिद्धयति । ... यस्य प्रथ्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ४९३ तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत् परस्परविरोधिता ॥ ४९४ अज्ञानज्ञानयोस्तद्वत् उभयोरेव दृश्यते । न ज्ञानेन विना , नाशः तस्य केनापि सिद्धयति ॥ ४९५ तस्मादज्ञानविच्छित्त्यै ज्ञानं संपादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिद्धयति नान्यथा ॥ युक्त्याऽऽत्मानात्मनोस्तस्मात् करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ४९७ आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy