________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
स्वस्वप्रयोजनविधौ नियतानि सन्ति ___ यत्नेन किंकरजना इव तं भजन्ते ॥ यत्रोपभुङ्क्ते विषयान् स्थूलानेष महामतिः । अहं ममेति चाप्यत्रोभयोरप्यभिमानिनोः ॥ तद्विश्ववैश्वानरयोः अभेदः पूर्ववन्मतः ।। स्थलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ॥ ते सर्वेऽपि मिलित्वैकः प्रपञ्चस्तु महान् भवेत् । महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ॥ विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् । यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ॥ महाप्रपञ्चेन सहाविविक्तं सदयोग्निवत् । तत्सर्वं खल्विदं ब्रह्मेसस्य वाक्यस्य पण्डितैः ।। वाच्यार्थ इति निर्णीत विविक्तं लक्ष्य इसपि ।। स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥
आत्मनिरूपणम्. अन्तःकरणतवृत्तिद्रष्ट्र नियमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्धया बुध्यस्य मुक्ष्मया ॥ ४५५ एष प्रसस्वप्रकाशो निरंशोऽसङ्गशुद्धसर्वदैकस्वभावः । निसाखण्डानन्दरूपो निरीहः साक्षी चेता केवलो निर्गुणश्च ॥ नैव प्रसग्जायते वर्धते नो किंचिन्नापक्षीयते नैव नाशम् । आत्मा निसश्शाश्वतोऽयं पुराणो नासौ हन्यो हन्यमाने शरीरे ॥
४५४