SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४२९ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ब्रह्माण्डसृष्टिः. आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ पञ्चीकृतेभ्यः खादिभ्यः भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ . . ४३० ब्रीह्याद्योषधयस्सर्वाः वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृगक्षकाः । कोचित्पर्णशिलातृणादनपराः कचित्तु मांसाशिनः केचिद्रीहियवान्नभोजनपरा जीवन्समी जन्तवः ॥ ४३२ चतुर्विधजन्तवः. जरायुजोण्डजस्वेदजोद्भिजाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३ येऽत्र जाता जरायुभ्यः तेन नाद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यः जाता ये विहगादयः ॥ ४३४ स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिजास्ते द्रुमादयः ॥ ४३५ इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिस्यात् एकधीविषयत्वतः ॥ एतत्समष्टयवच्छिन्नं चैतन्यं फलसंयुतम् । प्रादुर्वैश्वानर इति विराडिति च वैदिकाः॥ ४३७ वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः। . विराट् स्वाद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३८
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy