SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिदान्तसारसंग्रहः. ४०१ ४०२ . पञ्चीकरणम्. खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं सक्त्वा भागं द्वितीयकम् ॥ ३९८ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते। स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ।। संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्कयताम् ॥ उपलक्षणमस्यापि तत्त्रिरऽत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधस्स्यात् अन्यथा क्रियते यदि ॥ आकाशवाय्बोधर्मस्तु वढ्यादावुपलभ्यते । यथा तथाऽऽकाशवाय्वोः नानयादर्धर्म ईक्ष्यते ॥ अतोप्रामाणिकमिति न किंचिदपि चिन्यतां । खांशस्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु । तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोप्यनयादावुपलभ्यते ॥ ४०६ न तथा विद्यते व्याप्तिः वह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तः। तद्धर्मो नोपलभ्यते ॥ कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्मामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ४०४ ४०५ ४०७
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy