SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. हिरण्यगर्भस्सूत्रात्मा प्राण इसपि पण्डिताः । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपतिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ . ३८९ नैकधीविषयत्वेन लिङ्ग व्यष्टीभवत्यथ । यदेतद्वयष्ट्यपहितं चिदाभाससमन्वितम् ॥ चैतन्यं तैजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैप तैजसः ॥ स्थूलात्सूक्ष्मतया व्यष्टिः अस्य सूक्ष्मवपुर्भतम् । . अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ . स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान् भुक्ते सूक्ष्मार्थान सूक्ष्मवृत्तिभिः ॥ ३९३ समष्टरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यः जासैकत्वे कुतो भिदा ॥ ३९४ द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तजसस्याप्यभेदः पूर्ववन्मतः ॥ . स्थूलप्रपञ्चः. एवं सूक्ष्मप्रपञ्चस्य प्रकारश्शास्त्रसम्मतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।। पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy