________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. रजस्तमोभ्यां मलिनं त्वशुद्धं अज्ञानजं सत्त्वगुणन रिक्तम् । मनस्तमोदोषसमन्वितत्वात् जडत्वमोहालसताप्रमादैः ॥ तिरस्कृतं सन्न तु वेत्ति वास्तवं पदार्थतत्त्वं ह्युपलभ्यमानम् ॥३५९ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः
प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं
मनोदीपो यद्वत् प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ततो मुमुक्षुर्भवबन्धमुक्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥३६१
गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां . यदुःखं परिदृश्यते च नरके तचिन्तयित्वा मुहुः । . दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभितः चित्तग्रन्थिविमोचनाय मुमतिस्सत्त्वं समालम्बताम् ॥३६२
चित्तप्रसादहेतुः. यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ आसुरी सम्पदं सक्त्वा भजेद्यो देवसम्पदम् । मोक्षककाया निसं तस्य चित्तं प्रसीदति ॥ ३६४ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ आत्मवत्सर्वभूतेषु यस्समत्वेन पश्यति । मुखदुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ असन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजसनिशं क्षान्तः तस्य चित्तं प्रसीदति ॥
iv-20