________________
३५०
सवाच्यते ।
सर्ववेदान्तासमान्तसारसंग्रहः.
विज्ञानमयकोशः. विज्ञानमयकोशस्स्यात् बुद्धिर्ज्ञानेन्द्रियैस्सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयाऽऽत्मनः ॥ विज्ञानमयकोशोयं इति विद्वद्भिरुच्यते । अयं महानहङ्कारवृतिमान् कर्तृलक्षणः ॥ सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ अहं ममेसेवसदाऽभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च मुखी च दुःखी॥३५२ स्ववासनाप्रेरित एव नियं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥ ३५३ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । नियमाणो भ्रमसेव जीवस्संसारमण्डले ॥
मनोमयकोशः. .
मनो मनोमयः कोशो भवेत् ज्ञानेन्द्रियैस्सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः ॥ यतते कुरुते भुले तन्मनस्सर्वकारणम् ॥ मनो ह्यमुष्य प्रवणस्य हेतुः अन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशयत्ति करोति सर्वम् ॥३५७ वन्धश्च मोक्षो मनसैव पुंसां अर्थोप्यनर्थोप्यमुनैव सिद्धयति । शुद्धेन मोक्षो मलिनेन बन्धो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः॥३५८