SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । माणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ धीन्द्रियाणि. श्रोत्रत्वक्चक्षुर्जाघ्राणानि पच जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ अन्तःकरणम्. आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणं अभवत्सर्वकारणम् ॥ १५१ ३४० ३४१ ३४२ प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारः चित्तं चेति तदुच्यते ॥ संकल्पान्मन इत्याहु: बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारः चित्तमर्थस्य चिन्तनात् ॥ मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोत्र बोद्धव्यः लिङ्गलक्षणसिद्धये ॥ चिन्तनं च मनोधर्मसंकल्पादि यथा ततः । अन्तर्भावो मनस्यैव सम्यक्चित्तस्य सिद्ध्यति ॥ देवत्येव भावो दृढतरो धियः । दृश्यतेऽहं कुतस्तस्मात् ' अन्तर्भावोऽत्र युज्यते ॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिद्धयसात्मन उभयात् विद्यात्संसारकारणं मोहात् ॥ ३४९ ३४३ ३४४ ३४५ ३४६ ३४७ ३४८
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy